Рет қаралды 171
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ।। 16 ।।
अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपं त्वां सर्वतः पश्यामि । विश्वेश्वर विश्वस्य नियन्तः विश्वरूप विश्वशरीर यतः त्वम् अनन्तः, अतः तव न अन्तं न मध्यं न पुनः तव आदिं च पश्यामि ।। १६ ।।
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता द्दीप्तानलार्कद्युतिमप्रमेयम् ।। 17
तेजोराशिं सर्व तो दीप्तिमन्तं समन्ताद् दुर्निरीक्ष्यं दीप्तानलार्कद्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं
चक्रिणं च पश्यामि ।। १७ ।।
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ।। 18 ।।
उपनिषत्सु 'हे विथे वेदितव्ये' (मु० उ० १।१।४) इत्यादिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव । अस्य विश्वस्य परं निधानं विश्वस्य अस्य परमाधारभूतः त्वम् एव, त्यम्
अव्ययः व्ययरहितः, यत्स्वरूपो यहुणो यद्विभवश्च त्वं तेन एव रूपेण सर्वदा अवतिष्ठसे, शाश्वतधर्मगोता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवमादिभिः अवतारैः त्वम् एव गोमा । सनातनः त्वं पुरुषो मतों में 'वेदाहमेतं पुरुषं महान्तम् (तै.आ. ३।१२।७) परात्परं पुरुषम् (मु० उ० ३१२१८) इत्यादिषु उदितः सनातनपुल्यः त्वम् एव इति मे मतो ज्ञातः ।