,,,bhavanyastakam,,,भवान्यष्टकम्,,आद्य शंकराचार्य विरचितम् नव नवीना नलनामसंवत्सरस्य शुभकामना

  Рет қаралды 2,356

Madhav Sharma

Жыл бұрын

भवान्यष्टकम् :
न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥
भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः । कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥२॥
न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम् । न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥३॥
न जानामि पुण्यं न जानामि तीर्थ न जानामि मुक्तिं लयं वा कदाचित् । न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥४॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः । कुदृष्टिः कुवाक्यप्रबन्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥५॥
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् । न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥६॥
विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये । अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥७॥
अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः । विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥

Пікірлер: 5
@manohardas9564
@manohardas9564 Жыл бұрын
Jay siyaram
@buddhdevmishra6954
@buddhdevmishra6954 Жыл бұрын
न तातो न माता न बन्धुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।1।। भवाब्धावपारे महादु:खभीरु:, पपात प्रकामी प्रलोभी प्रमत्त:। कुसंसार-पाश-प्रबद्ध: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।2।। न जानामि दानं न च ध्यान-योगं, न जानामि तन्त्रं न च स्तोत्र-मन्त्रम्। न जानामि पूजां न च न्यासयोगम्, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।3।। न जानामि पुण्य़ं न जानामि तीर्थं, न जानामि मुक्तिं लयं वा कदाचित्। न जानामि भक्तिं व्रतं वाSपि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।4।। कुकुर्मी कुसंगी कुबुद्धि कुदास:, कुलाचारहीन: कदाचारलीन:। कुदृष्टि: कुवाक्यप्रबन्ध: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।5।। प्रजेशं रमेशं महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चाSन्यत् सदाSहं शरण्ये, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।6।। विवादे विषादे प्रमादे प्रवासे, जले चाSनले पर्वते शत्रुमध्ये। अरण्ये शरण्ये सदा मां प्रपाहि, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।7।। अनाथो दरिद्रो जरा-रोगयुक्तो, महाक्षीणदीन: सदा जाड्यवक्त्र:। विपत्तौ प्रविष्ट: प्रणष्ट: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।8।। इति श्रीमच्छंकराचार्यकृतं भवान्यष्टकं सम्पूर्णम्।।
@Premrasaamrit
@Premrasaamrit Жыл бұрын
नव- नव -रंग- उमंग -सहितं नव- नवीना नलनामसंवत्सरस्य हार्दिकी शुभकामना । 🌹🌸🌷🌺🙏🌸🌺🌷💐
@panditgajanandtiwari737
@panditgajanandtiwari737 Жыл бұрын
जय हो
@buddhdevmishra6954
@buddhdevmishra6954 Жыл бұрын
शंकराचार्य की रचना की पूरी श्रृंखला चलने दीजिए
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 81 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 110 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 81 МЛН