Рет қаралды 700
The Shree Mahalaxmi Ashtak is a devotional hymn dedicated to Goddess Mahalaxmi, the Hindu goddess of wealth, prosperity, and fortune. Reciting the Ashtak (a set of eight verses) is believed to invoke the blessings of Goddess Mahalaxmi. Below is the text:
Shree Mahalaxmi Ashtak
॥ श्री महालक्ष्म्यष्टकं ॥
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते।
शङ्खचक्रगदा हस्ते महालक्ष्मि नमोऽस्तु ते ॥१॥
नमस्ते गरुडारूढे कोलासुर भयङ्करि।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि।
मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरी।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे।
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥८॥
॥ फलश्रुति ॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेत भक्तिमान्नरः।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
एककालं पठेन्नित्यं महापापविनाशनम्।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥
॥ इति श्रीमहालक्ष्म्यष्टकं सम्पूर्णम् ॥
Regular recitation of this hymn, particularly during Fridays or during Navratri, is considered highly auspicious.
PLEASE LIKE SHARE & SUBSCRIBE OUR CHANNEL
THANK YOU