Рет қаралды 22,331
ढोल गँवार शूद्र पशु नारी।
यह सब ताड़न के अधिकारी॥
-रामचरितमानस, ५.५९.६॥
लालने बहवो दोषास्ताडने बहवो गुणाः।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत्॥
-गरुडपुराण, १.११५.९
न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत्॥
-गरुडपुराण, १.९६.५७
भार्या पुत्रश्च दासश्च प्रेष्यो भ्राता च सोदरः।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन।
अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम्॥
-मनुस्मृति, ८.२९९-३००
मार्गस्थापनोपायविधिः परश्चायं न ताडनविधिरेव वाग्दण्डाद्यपि कर्तव्यं, अपराधानुरूपेण कदाचित्ताडनम् ... वेणुदलं वंशत्वक् एतदप्युपलक्षणं तथाविधानां मृदुपीडासाधनानाम् ... अन्येन प्रकारेण घ्नन्नक्षादिषु लगुडादिभिर्वा चौरदण्डं स प्राप्नोति ... योऽन्यत्र हिंसाया दण्डः सोऽत्र भवतीत्युक्तं भवति।
-मनुस्मृति, ८.२९९-३००, पर मेधातिथि का भाष्य
शिष्यशिष्टिरवधेन।
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्।
अन्येन घ्नन् राज्ञा शास्यः।
-गौतम धर्मसूत्र, १.२.४८-५०
दुष्टाचारे समारब्धे त्वन्यभावसमुत्थिते।
दण्डः पातयितव्यस्तु मृदुताडनबन्धनैः॥
-नाट्यशास्त्र, २३.७०