Рет қаралды 10
Nasti tyagasamam sukham|नास्ति त्यागसमं सुखम्|Manika|class 10 Sanskrit|CBSE board|Sanskrit|chapter 2
Nasti tyagasamam sukham|नास्ति त्यागसमं सुखम्|Manika|class 10 Sanskrit|CBSE board|Sanskrit|chapter 2
नास्ति त्यागसमं सुखम्
पाठः
अतीव सुन्दरम् ।
एतत् तु अजन्ता-गुहानां चित्रं प्रतीयते।
राजीवः
सोम ! पश्य एतत् चित्रम् ।
सोमः
शोभा
राजीवः आम् ! महाराष्ट्रप्रदेशे स्थिताः एताः अजन्ता गुहाः एव।
सौरभः अहो! दृष्टम्। अत्र तु अनेकानि जातक चित्राणि उट्टङ्कितानि सन्ति।
देविका जातकं किं भवति ?
राजीवः अहं न जाने! आचार्य प्रक्ष्यामः ।
छात्रा: गुरुवर ! जातकं किं भवति ?
आचार्य: जातकम् अर्थात् जन्म। 'जातकमाला' इति नाम्नि पुस्तके भगवतः बुद्धस्य पूर्वजन्मनः विविधाः कथाः सन्ति। एतासु परहिताय सर्वस्वं त्यक्तव्यम् इत्येव शिक्षितम्। एतादृशीम् एकां कथां कथयामि।
छात्राः एवम् ! वयम् एतादृशीं कथां श्रोतुम् उत्सुकाः ।
आचार्यः श्रूयतां तावत्। बौद्धाचार्यस्य आर्यशूरस्य जातकमालायाः शिविजातक आधारिता एषा कथा।
अथ एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत्। स बाल्यात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत्। जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म। कारुण्य-औदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्। तत्र अर्थिनां समूहः अन्न-पान वसन रजत- सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्। राज्ञः दानशीलताम् आकर्ण्य देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म।
अथ कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत् 'मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। नूनं ते दानवीराः सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि अपि याचन्ते।' एवं राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।
राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत् हे राजन् ! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि । देव ! रवि शशि-तारा-मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुहींनः ।
राजा उवाच भगवन् ! भवन्मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि। आदिश्यतां किं करवाणि? विप्रः अकथयत् यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि येन मम लोकयात्रा निर्बाधा भवेत्। तत् श्रुत्वा राजा अचिन्तयत्- "लोके चक्षुर्दानं दुष्करमेव। नूनम् ईदृशं दानम् इच्छन् अयं याचकः केनापि प्रेरितः स्यात् । अथवा भवतु नाम किं बहु चिन्तनेन?" इति विचार्य राजा अभाषत "भो मित्र! किमेकेन चक्षुषा, अहं भवते चक्षुर्द्वयमेव प्रयच्छामि इति।"
राज्ञः नेत्रदानार्थं निश्वयं ज्ञात्वा अमात्याः विषण्णाः भूत्वा अवदन् महाराज ! अलम् एतावता दुस्साहसेन, प्रभूतं धनमेव दीयताम्।
अथ स राजा तान् अवदत्
दास्यामीति प्रतिज्ञाय योऽन्यथा कुरुते मनः ।
कार्पण्यानिश्चितमतेः कः स्यात् पापतरस्ततः ।।
नाहं स्वर्ग न मोक्षं वा कामये किन्तु आर्त्तानां परित्राणाय एव मे निश्चयः ।
अस्य याच्ञा वृथा मा अस्तु इत्युक्त्वा स राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्। ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै
नास्ति त्यागसमं सुखम्
अयच्छत्। अथ विस्मितः शक्रः अचिन्तयत्
अहो धृतिः ! अहो सत्त्वम् !
अहो सत्त्वहितैषिता !
नायं चिरं परिक्लेशम् अनुभवितुम् अर्हति। अतः प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय इति।
कतिपयैः दिनैः व्रणविरोपणे जाते एकदा राजा सरोवरस्य समीपे विहरति स्म। तदा तस्य पुरतः पुनः देवराजः शक्रः उपस्थितः भूत्वा तस्य त्यागवृत्तिं प्रशंसन् अवदत्
शक्रोऽहमस्मि देवेन्द्रस्त्वत्समीपमुपागतः ।
वरं वृणीष्व राजर्षे! यदिच्छसि तदुच्यताम्
।
एवम् उक्तेन राज्ञा नेत्रार्थं प्रार्थिते सति शक्रस्य प्रभावेण आत्मनः सत्यपुण्यबलेन च तस्य प्रथमम् एकं चक्षुः प्रतिष्ठितम् अभवत् ततः द्वितीयमपि। भूयः प्रीतः शक्रः वरम् अयच्छत्-
शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव इति।
इति उक्त्वा शक्रः तत्रैव अन्तर्हितः अभवत्।
अतः सत्यमेव उक्तम्-
धनस्य निःसारलघोः स सारो यद् दीयते लोकहितोन्मुखेन ।
निधानतां याति हि दीयमानम् अदीयमानं निधनैकनिष्ठम् ॥