Рет қаралды 14,246
A beautiful #Sanskrit poem #PriyamBharatam penned by Shri Chandrabhanu Tripathi ji, composed and sung by #Deepika Bhide Bhagwat.
#Arrangement - Pranav Haridas
#Tabla - Yati Bhagwat
#Pakhwaj and percussions - Hanumant Rawade
#Sitar and Swarmandal - Pt. Umashankar Shukla
#flute - Pranav Haridas
#Chorus - Maithili Bapat , Sharvari Pendase
#Recording mixing - Ganesh Pokale, Audioarts studio
#Videography - Sachin Gupta
#Video edit - Shubhasur creations
special thanks - Smt. Dhanashree Lele.
#Lyrics - Shri Chandrabhanu Tripathi ji.
प्रकृत्या सुरम्यं विशालं प्रकामम्
सरित्तारहारैः ललामम् निकामम्
हिमाद्रिः ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम् ||
धनानां निधानं धरायां प्रधानम्
इदं भारतं देवलोकेन तुल्यम्
यशो यस्य शुभ्रं विदेशेषु गीतम्
प्रियं भारतं तत् सदा पूजनीयम् ||
अनेके प्रदेशा अनेके च वेषाः
अनेकानि रूपाणि भाषा: अनेका
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम् ||
सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम्
स्वधर्मानुरक्ताः सुशीलाश्च नार्या:
प्रियं भारतं तत् सदा श्लाघनीयम् ||
वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम् ||