Рет қаралды 621,486
देव्यपराधक्षमापनस्तोत्रम्
वाचन: सरू गुरागाईँ
सङ्गीत संयोजन/अडियो/भिडियो: मुरारि गुरागाईँ
विशेष धन्यवाद: प्रा. डा. जयराज आचार्य
अथ देव्यपराधक्षमापनस्तोत्रम्
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुति-कथा:
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस् त्वदनु-सरणम् क्लेश-हरणम् /१/
विधे-रज्ञानेन द्रविण-विरहेणा-लसतया
विधेया-शक्यत्वात् तव चरणयोर् या च्युति-रभूत्
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति /२/
पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
परं तेषाम् मध्ये विरल-तरलोऽहं तव सुत:
मदीयोऽयं त्याग: समुचित-मिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति /३/
जगन्मातर् मातस् तव चरण-सेवा न रचिता
न वा दत्तं देवि द्रविण-मपि भूयस् तव मया
तथापि त्वं स्नेहं मयि निरुपमं यत् प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति /४/
परित्यक्ता देवा विविध-विध-सेवा-कुलतया
मया पञ्चाशीते-रधिक-मपनीते तु वयसि ।
इदानीं चेन् मातस् तव यदि कृपा नापि भविता
निरालम्बो लम्बोदर-जननि कं यामि शरणम् /५/
श्वपाको जल्पाको भवति मधुपाको-पम गिरा
निरातङ्को रङ्को विहरति चिरं कोटि-कनकै:
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जन: को जानीते जननि जपनीयं जपविधौ /६/
चिता-भस्मा-लेपो गरल-मशनं दिक्पट-धरो
जटाधारी कण्ठे भुजग-पति-हारी पशुपति : ।
कपाली भूतेशो भजति जगदीशैक-पदवीं
भवानि त्वत्पाणि-ग्रहण-परिपाटी-फल-मिदम् /७/
न मोक्षस्या-काङ्क्षा भव-विभव-वाञ्छाऽपि च न मे
न विज्ञाना-पेक्षा शशिमुखि सुखेच्छापि न पुन:
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव-शिव-भवानीति जपत: /८/
नाराधितासि विधिना विविधोपचारै
किं रुक्ष-चिन्तन-परैर् न कृतं वचोभि :
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपा-मुचित-मम्ब परं तवैव /९/
आपत्सु मग्न: स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेसी
नैतच्छठत्वं मम भावयेथा:
क्षुधा-तृषार्ता जननीं स्मरन्ति /१०/
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि
अपराध-परम्परा-वृतं न हि माता समुपेक्षते सुतम् /११/
मत्सम: पातकी नास्ति पापध्नी त्वत्समा न हि
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु /१२/
इति श्रीशंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम्