Рет қаралды 73
॥अथ श्रीराम गायत्री मंत्र॥
ॐ दाशरथाय विद्महे सीतावल्लभाय
धीमहि तन्नो रामः प्रचोदयात् ।
दाशरथाय-दशरथापत्याय।
विद्महे-विजानीमः ।
सीतावल्लभाय-सीतापतये।
धीमहि-ध्यायामः ।
तत्-तस्मात् । रामः- रामचन्द्रः ।
नः अस्मान् । प्रचोदयात्-प्रेरयेत ।
श्री हनुमद् उवाच ---
राम एव परं ब्रह्म राम एव परं तपः ।
राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम्।
केवलं रामनामैव सदा यज्जीवनं मुने ।
सत्यं वदामि सर्वस्वमिदमेकं सदा मम ॥
श्री महादेव उवाच ---
राम रामेति रामेति, रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं, श्रीराम नाम वरानने॥