Рет қаралды 65,049
॥ दक्षिणामूर्तिस्तोत्रम् ॥
तल्पोत्थायमनल्पगृहभरमीशे क्षिप्त्वा भरकल्पे
श्रुतिसञ्चोदितकृतिकृत्यां शिवकृतिरियमिति फलमनपेक्ष्य ।
संशोध्यान्तरमित्थं सृष्टावासीनं सममात्मानं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ १ ॥
वेदावेदितविज्ञानं गुरुवाचा चेतसि निश्चित्य
ब्रह्मात्मैक्यमवेत्य न किञ्चन तस्मात्परतरमवबुध्य ।
ब्रह्मेदं ह्यपरोक्षं कृत्वा ब्रह्मीभावमवाप्तुं रे
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ २ ॥
वासालंकृतवटमूलं वरशार्दूलाजिनकृतचेलं
व्यालोद्वलयितचूडालं करसङ्कलिताक्षगुटीमालम् ।
ध्यानामीलितनयनं बालमुपान्तस्थितजरदृषिजालं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ३ ॥
दक्षिणसक्थौ धृतवामाङ्घ्रिं दक्षिणहरिदभिमुखसुमुखं
भद्रासनजुषमुज्वलवपुषं वृषरतनिजजनकलुषमुषम्
रुद्रं नतजनमायानिद्रानिरसनपटुतरचिन्मुद्रं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ४ ॥
घोरं गलगतविषभारं सममात्मोपासकनेतारं
धीरं निर्ममताकारं सममभिमतभुवनत्रातारम् ।
वैराग्याम्बुनिधेः पारं सममुररीकृतजनमन्दारं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ५ ॥
मौनेनैव नयन्तं नैगमतत्त्वार्थान् नतमुनितीर्थान्
नैश्चल्येन च जगतीचालनदक्षं स्वान्तर्नियताक्षम् ।
बालाकृतिमतिवेलप्रज्ञमबोधहरं निजबोधकरं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ६ ॥
यन्मौनं खलु वाग्विभवा यदकिञ्चनता धननिर्भरता
यस्यैकत्वं खलु परिषत्त्वं यदुदासः प्रणयोद्भासः ।
यत्स्वध्यानं जगदवधानं तमरूपं सदसद्रूपं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ७ ॥
शान्तं संसृतितान्तान्तःकरणान्तेवासिहृदन्तःस्थ-
ध्वान्तामयशमचिन्तामणिमखिलानन्दं परमान्दम् ।
दान्तं कान्ततनुं निगमान्तनिरन्तवनान्तर्विहरन्तं
चेतश्चिन्तय देशिकमाद्यमनाधारं भुवनाधारम् ॥ ८ ॥
#SriDakshinamurtiStotram #Sringeri #Jagadguru #BharathiTeerthaMahaswamiji #Mahasannidhanam
Audio & script Source - Dakshinamnaya Sri Sharada Peetham, Sringeri
Rendered by: Smt. Sharada Ramanan & Smt.Bharati
Language: Sanskrit