प्रज्ञापारमितामाचर्या गर्ने बोधिसत्व महासत्वहरुलाई के कारणले प्रज्ञापारमिताको मार्गबाट भडकाउन सक्छ?

  Рет қаралды 529

NB TV

NB TV

Күн бұрын

Пікірлер: 2
@Siddharthaplayz
@Siddharthaplayz 2 ай бұрын
🙏🙏🙏
@PushpanepalVajracarya
@PushpanepalVajracarya 2 ай бұрын
आवेणिकैर्बुद्धधर्मैः। तस्मादियमपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या॥ पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता वमुपपरीक्षितव्यमे- वमुपनिध्यातव्यम्-कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किं यो धर्मो न विद्यते नोपलभ्यते, सा प्रज्ञापारमितेति? सचेदेवमुपपरीक्षमाणः एवमुपनिध्यायन् नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं कारणमायुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः? यदा रूपमेव विरहितं रूपस्वभावेन, एवं यदा वेदनैव संज्ञैव संस्कारा एव, यदा विज्ञानमेव विरहितं विज्ञानस्वभावेन, यदा प्रज्ञापारमितैव विरहिता प्रज्ञापारमितास्वभावेन, यदा सर्वज्ञतैव विरहिता सर्वज्ञतास्वभावेन॥ एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-एतमेतदायुष्मन् शारिपुत्र एवमेतत्। रूपमेवायुष्मन् शारिपुत्र विरहितं रूपस्वभावेन। एवं वेदनैव संज्ञैव संस्कारा एव। विज्ञानमेवायुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन। प्रज्ञापारमितैव आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन। सर्वज्ञतैव आयुष्मन् शारिपुत्र विरहिता सर्वज्ञतास्वभावेन। प्रज्ञापारमितालक्षणेनापि प्रज्ञापारमिता विरहिता। लक्षणस्वभावेनापि लक्षणं विरहितम्। लक्ष्यस्वभावेनापि लक्ष्यं विरहितम्। स्वभावलक्षणेनापि स्वभावो विरहितः॥ एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किं पुनरायुष्मन् सुभूते यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम्? आयुष्मान् सुभूतिराह-एवमेतदायुष्मन् शारिपुत्र, एवमेतत्। यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम्। तत्कस्य हेतोः? अजाता ह्यनिर्जाता ह्यायुष्मन् शारिपुत्र सर्वधर्माः। एवं चरत आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञता आसन्नीभवति। यथा यथा सर्वज्ञता आसन्नी भवति, तथा तथा सत्त्वपरिपाचनाय कायचित्तपरिशुद्धिर्लक्षण -परिशुद्धिः बुद्धक्षेत्रशुद्धिः। बुद्धैश्च समवधानं भवति। एवं च पुनरायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वज्ञताया आसन्नीभवति॥ पुनरपरमायुष्मान् सुभूतिर्बोधिसत्त्वं महासत्त्वमारभ्यैवमाह-सचेद्रूपे चरति, निमित्ते चरति। सचेद्रूपनिमित्ते चरति, निमित्ते चरति। सचेद्रूपं निमित्तमिति चरति, निमित्ते चरति। स चेद्रूपस्योत्पादे चरति, निमित्ते चरति। सचेद्रूपस्य निरोधे चरति, निमित्ते चरति। सचेद्रूपस्य विनाशे चरति, निमित्ते चरति। सचेद्रूपं शून्यमिति चरति, निमित्ते चरति। अहं चरामीति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति। एवं सचेद्विदनायां संज्ञायां संस्कारेषु। सचेद्विज्ञाने चरति, निमित्ते चरति। सचेद्विज्ञाननिमित्ते चरति, निमित्ते चरति सचेद्विज्ञानं निमित्तमिति चरति, निमित्ते चरति। सचेद्विज्ञानस्योत्पादे चरति, निमित्ते चरति। सचेद्विज्ञानस्य निरोधे चरति, निमित्ते चरति। सचेद्विज्ञानस्य विनाशे चरति, निमित्ते चरति। सचेद्विज्ञानं शून्यमिति चरति, निमित्ते चरति। अहं चरामीति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति चरति, निमित्ते चरति। अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति। सचेत्पुनरस्यैवं भवति-य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति, निमित्त एव स चरति। अयं बोधिसत्त्वोऽनुपायकुशलो वेदितव्यः॥ bhaga 15 END
«Жат бауыр» телехикаясы І 30 - бөлім | Соңғы бөлім
52:59
Qazaqstan TV / Қазақстан Ұлттық Арнасы
Рет қаралды 340 М.